दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः 100.
रूपं देहि यशोदेहि भाग्यं भगवति ! देहि मे 100.
ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा ॥ 100.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमोऽध्यायः
श्रीकामः शान्तिकामो वा ग्रहदृष्ट्यभिचारवान् 101.
सूर्य्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः 101.
ताम्रकांस्यस्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ 101.
रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः 101.
स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत्पटे सुवर्णानि प्रदेयानि वासांसि सुसुमानि च ॥ 101.
गन्धाश्च बलयश्चैव धूपो देयश्चगुग्गुलुः 101.
आकृष्णेन इमंदेवा अग्निर्मूर्द्धादिवः ककुत् 101.
बृहस्पतेपरिदीयेति सर्वे अन्नात्परिसुतम् 101.
अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः 101.
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्वितः 101.
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च 101.
धेनुः शङ्खस्तथानड्वान्हेम वासो हयस्तथा ग्रहाः पूज्याः सदा यस्माद्रज्यादि प्राप्यते फलम् ॥ 101.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तग्रहशान्तिनिरूपणं नामैकोत्तरशततमोऽध्यायः
वानप्रस्थाश्रमं वक्ष्ये तच्छृण्वन्तु महर्षयः 102.
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी 102.
भृत्यांस्तु तर्पयेच्छ्मश्रुजटालोमभृदात्मवान् 102.
स्वाध्यायवान्ध्यानशीलः सर्वभूतहितेरतः (तिः) 102.
कृतं त्यजेदाश्वयुजे युञ्जेत्कालं व्रतादिना 102.
चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात्फलादिना 102.
आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत् अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च ॥ 102.
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नाम द्वयधिकशततमोऽध्यायः
भिक्षोर्धर्मं प्रवक्ष्यामितिनिबोधत सत्तमाः 103.
प्राजापत्यन्तदन्तेऽपि अग्निमारोप्य चात्मनि 103.
सर्वारामं परिव्रज्य भिक्षार्थो ग्राममाश्रयेत् 103.
रोहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः 103.
सिद्धयोगस्त्यजन्देहममृतत्वमिहाप्नुयात् 103.