पुत्रश्रैष्ट्यं स सौभाग्यं समृद्धिं मुख्यतां शुभम् 99.
अरोगित्वं यशो वीतशोकतां परमां गतिम् 99.
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति 99.
वस्त्राद्याः प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः 99.
प्रयच्छति यथा राज्यं प्रीत्या नित्यं पितामहः ॥ 99.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नवनवतितमोऽध्यायः
विनायकोपसृष्टस्य लक्षणानि निबोधत 100.
विमना विफलारम्भः संसदित्यनिमित्ततः 100.
नाप्नुयात्स्नापनं तस्य पुण्येऽह्निविधिपूर्वकम् 100.
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा 100.
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निः क्षिपेत् 100.
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा 100.
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते 100.
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः 100.
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नुंतु ते सदा 100.
जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च 100.
कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः 100.
कृताकृतांस्तण्डुलांश्च पललौदनमेव च 100.
मूलकं पूरिकापूपं तथैवौण्डेरकस्रजः 100.
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः 100.
दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः 100.
रूपं देहि यशोदेहि भाग्यं भगवति ! देहि मे 100.
ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा ॥ 100.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमोऽध्यायः
श्रीकामः शान्तिकामो वा ग्रहदृष्ट्यभिचारवान् 101.
सूर्य्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः 101.
ताम्रकांस्यस्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ 101.
रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः 101.
स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत्पटे सुवर्णानि प्रदेयानि वासांसि सुसुमानि च ॥ 101.
गन्धाश्च बलयश्चैव धूपो देयश्चगुग्गुलुः 101.