आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा 99.
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् 99.
उच्छिष्टसन्निधौ पिण्डान्प्रदद्यात्पितृयज्ञवत् 99.
स्वस्ति वाच्यं ततो दद्यादक्षय्योदकमेव च 99.
वाच्यतामिन्यनुज्ञातः पितृभ्यश्च स्वधोच्यताम् 99.
प्रीयन्तामिति चाहैवं विश्वेदेव्यं जलं ददत् 99.
श्रद्धा च नो मा व्यगमद्वहु देयं च नोऽस्त्विति 99.
वाजेवाजे इति प्रीत्या पितृपूर्वं विसर्जनम् 99.
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् 99.
ब्रह्मचारीं भवेत्तां तु रजनीं भार्य्यया सह 99.
यजेत्तदधिकर्कन्धूमिश्राः पिण्डा यैवः श्रिताः 99.
आवाहनाग्नौकरणरहितं त्वपसव्यवत् 99.
अभिरम्यतां प्रबूयाद् ब्रुयुस्तेभिरताः स्म ह 99.
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् 99.
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि 99.
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः 99.
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् 99.
ऐणरौरववा राहशाशमांसैर्यथाक्रमम् 99.
दद्याद्वर्षात्रयोदश्यां मघासु च न संशयः 99.
शस्त्रेण निहतानां तु चतुर्दश्यां प्रदीयते 99.
पुत्रश्रैष्ट्यं स सौभाग्यं समृद्धिं मुख्यतां शुभम् 99.
अरोगित्वं यशो वीतशोकतां परमां गतिम् 99.
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति 99.
वस्त्राद्याः प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः 99.
प्रयच्छति यथा राज्यं प्रीत्या नित्यं पितामहः ॥ 99.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नवनवतितमोऽध्यायः
विनायकोपसृष्टस्य लक्षणानि निबोधत 100.
विमना विफलारम्भः संसदित्यनिमित्ततः 100.
नाप्नुयात्स्नापनं तस्य पुण्येऽह्निविधिपूर्वकम् 100.
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा 100.