द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयात् 98.
गृहधान्यच्छत्रमाल्यवृक्षयानघृतं जलम् 98.
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम् 98.
मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् 98.
तस्मात्सर्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः 98.
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम् 98.
न श्रोतव्यं द्विजेनैतदधो नयति तं द्विजम् 98.
कुशाः शाकं पयो गन्धाः प्रत्याख्येया न वारि च 98.
अन्यत्र कुलटाषण्डपतितेभ्यो द्विषस्तथा सर्वतः प्रतिगृह्णीयादात्मतृप्त्यर्थमेव च ॥ 98.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणं नामाष्टनवतितमोऽध्यायः
अथ श्राद्धविधिं वक्ष्ये सर्वपापप्रणाशनम् 99.
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्य्यसंक्रमः 99.
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः 99.
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः 99.
त्रिणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः 99.
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः 99.
अवकीर्ण्याद यो ये च ये चाचारविवर्जिताः 99.
निमन्त्रयेच्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः 99.
युग्मान्देवे तथा पित्र्ये स्वप्रदेशेषु शक्तितः 99.
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् 99.
आवाह्य तदनुज्ञातो विश्वदेवासइत्यृचा 99.
शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा 99.
गन्धोदके तथा दीपमाल्यदामप्रदीपकम् 99.
द्विगुणांस्तु कुशान्दत्त्वा उशन्तस्त्वेत्यृचा पितॄन् 99.
यवार्थस्तु तिलैः कार्य्यः कुर्य्यादर्घ्यादि पूर्ववत् 99.
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः 99.
कुरुष्वेति तथोक्तोसौ हुत्वाग्नौ पितृयज्ञवत् 99.
यथालाभोपपन्नेषु रौप्येषु च विशेषतः 99.
कृत्वे दंविष्णुरित्येवं द्विजाङ्गुष्ठं निवेशयेत् 99.
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः 99.