ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यात्तपोऽन्विताः (तम्) 98.
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः 98.
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः 98.
हेमश्रृङ्गी शफैः रौप्यैः सुशीला वस्त्रसंयुता 98.
दशसौवर्णिकं श्रृङ्गं शफं सप्तपलैः कृतम् 98.
स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा 98.
दाता स्वर्गमवाप्नोति वत्सरान्रोमसंमितान् 98.
यावद्वत्सस्य द्वौ पादौ मुखं योन्यां प्रदृश्यते 98.
यथा कथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा 98.
श्रान्तसंवाहनं रोगिपरिचर्य्या सुरार्चनम् 98.
द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयात् 98.
गृहधान्यच्छत्रमाल्यवृक्षयानघृतं जलम् 98.
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम् 98.
मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् 98.
तस्मात्सर्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः 98.
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम् 98.
न श्रोतव्यं द्विजेनैतदधो नयति तं द्विजम् 98.
कुशाः शाकं पयो गन्धाः प्रत्याख्येया न वारि च 98.
अन्यत्र कुलटाषण्डपतितेभ्यो द्विषस्तथा सर्वतः प्रतिगृह्णीयादात्मतृप्त्यर्थमेव च ॥ 98.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणं नामाष्टनवतितमोऽध्यायः
अथ श्राद्धविधिं वक्ष्ये सर्वपापप्रणाशनम् 99.
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्य्यसंक्रमः 99.
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः 99.
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः 99.
त्रिणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः 99.
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः 99.
अवकीर्ण्याद यो ये च ये चाचारविवर्जिताः 99.
निमन्त्रयेच्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः 99.
युग्मान्देवे तथा पित्र्ये स्वप्रदेशेषु शक्तितः 99.
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् 99.