श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्मणि न स्पृशेत् 96.
आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् 96.
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु 96.
वर्जयेत्परशय्यादि न चाश्रीयादनापदि 96.
वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम् 96.
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् 96.
नृशंसराजरजककृतघ्नवधजीविनाम् 96.
वन्दिनां स्वर्णकाराणामन्नमेषां कदाचन 96.
भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम् 96.
गोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः 96.
भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् 96.
अस्नेहा अपि गोधूमयवगोरसविक्रियाः 96.
क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् 96.
वृथा कृसरसंयाव पायसापूपशष्कुलीः 96.
चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः 96.
पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत् 96.
वसेत्स नरके घोर दिनानि पशुरोमतः मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥ 96.
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः
द्रव्यशुद्धिंप्रवक्ष्यामि तन्निबोधत सत्तमाः 97.
पात्राणां चासनानां च वारिणा शुद्धिरिष्यते 97.
तक्षणाद्दारुश्रृङ्गादेर्यज्ञपात्रस्य मार्जनात् 97.
भैक्ष्यं योषिन्मुखं पश्यन्पुनः पाकान्महीमयम् 97.
भस्मक्षेपाद्विशुद्धिः स्याद्भूशुद्धिर्माजनादिना 97.
भस्माद्भिर्लोहकांस्यानामज्ञातं च सदा शुचि 97.
शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम् 97.
रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलाः 97.
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्याप्रसर्पणे 97.
क्षुते निष्ठीविते स्वापे परिधानेऽश्रुपातने तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे ॥ 97.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तद्रव्यशुद्धिनिरूपणं नाम सप्तनवतितमोऽध्यायः
अथ दानिविधिं वक्ष्ये तन्मे श्रृणुत सुव्रताः 98.