अनध्यायस्त्र्यहं प्रेते शिष्यर्त्त्विग्गुरुबन्धुषु 96.
सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने 96.
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके 96.
पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः 96.
श्वक्रोष्टुगर्दभोलूकसामबाणार्त्तनिः स्वने 96.
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे 96.
दिग्दाहे पांशुवर्षेषु सन्ध्यानी हारभीतिषु 96.
खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे 96.
वेददिष्टं तथाचार्य्यं राजच्छायां परस्त्रियम् 96.
विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन 96.
श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्मणि न स्पृशेत् 96.
आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् 96.
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु 96.
वर्जयेत्परशय्यादि न चाश्रीयादनापदि 96.
वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम् 96.
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् 96.
नृशंसराजरजककृतघ्नवधजीविनाम् 96.
वन्दिनां स्वर्णकाराणामन्नमेषां कदाचन 96.
भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम् 96.
गोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः 96.
भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् 96.
अस्नेहा अपि गोधूमयवगोरसविक्रियाः 96.
क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् 96.
वृथा कृसरसंयाव पायसापूपशष्कुलीः 96.
चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः 96.
पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत् 96.
वसेत्स नरके घोर दिनानि पशुरोमतः मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥ 96.
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः
द्रव्यशुद्धिंप्रवक्ष्यामि तन्निबोधत सत्तमाः 97.
पात्राणां चासनानां च वारिणा शुद्धिरिष्यते 97.