व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम् 96.
दायकालादृते वापि श्रौतं वैतानिकाग्निषु 96.
प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् 96.
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च 96.
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा 96.
जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् 96.
भूतपित्रमरब्रह्ममनुष्याणां महामखाः 96.
अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत् 96.
स्वाध्यायमन्वहं कुर्य्यान्न पचेच्चान्नमात्मने 96.
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् 96.
मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् 96.
अनग्नममृतं चैव कार्य्यमन्नं द्विजन्मना 96.
अप्रणोद्योऽतिथिः सायमपि नात्र विचारणा 96.
आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च 96.
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः 96.
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः 96.
वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम् 96.
अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः 96.
कुर्य्याद्भृत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम् 96.
वृद्धार्त्तानां समादेयः पन्था वै भारवाहिनाम् 96.
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा 96.
कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् 96.
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः 96.
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा 96.
स्यादन्नं वार्षिकं यस्य कुर्य्यात्प्राकसौमिकीं क्रियाम् 96.
कर्त्तव्याऽऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः 96.
हीनकल्पं न कुर्वोत सति द्रव्ये फलप्रदम् 96.
यज्ञार्थलब्धं नादद्याद्भासः काकोऽपि वा भवेत् 96.
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः 96.
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा 96.