आग्नेय्या दह्यमानांश्च प्लावितानम्भसा पुनः 9.
प्रणवं चिन्तयेव्द्योम्नि शरीरेऽन्यत्तु कारणम् 9.
उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज 9.
चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात् 9.
कर्णिकातलहस्तन्तु नखान्यस्य तु केशराः 9.
तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च ।। 9.
गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः ।। 9.
तन्नाम कारयेत्तस्य स्त्रीणां नामांकितं स्वयम् 9.
श्र्यादिपूजां प्रवश्र्यामि स्थण्डिलादिषु सिद्धये श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम् 10.
मण्डले पद्मगर्भे च चतुर्द्वारि रजोऽन्विते 10.
खाक्षीन्दुसूर्य्यगं सर्वं खादिवेदेन्दुवर्त्तनात् 10.
क्षेत्रपालमथाग्न्यादौ होमाज्जुहाव कामभाक् 10.
अनेन पूजयेल्लक्ष्मीं पूर्वोक्तपरिवारकैः ॐ ह्रीं सौं सरस्वत्यै नमः ।। 10.
ॐ ह्रीं वदवदवाग्वादिनिस्वाहा ॐ ह्रीं सरस्वत्यै नमः ।। 10.
नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि 11.
ततोरमिति बीजेन दहेद्भूतात्मकं वपुः 11.
लमित्यनेन बीजेन प्लावयेत्सचराचरम् 11.
ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः 11.
मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः 11.
षडङ्गेन ततः कुर्य्यात्साक्षाद्येन हरिर्भवेत् 11.
मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः 11.
बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् 11.
चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् 11.
ततो मूर्द्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा 11.
पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् 11.
करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः 11.
शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ 11.
तेनैव च दिशो बद्धा पूजा विधिमथाचरेत् 11.
धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम् 11.
एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् 11.