सुरापी व्याधिता द्वेष्ट्री वन्ध्यार्थघ्न्यप्रियंवदा 95.
यत्राविरोधो दम्पत्योस्त्रिवर्गस्तत्त्र वर्द्धते 95.
सेह कीर्त्तिमवाप्नोति मोदते चोमया सह 95.
स्त्रीभिर्भर्तुर्वचः कार्य्यमेष धर्मः परः स्त्रियाः 95.
ब्रह्मचारी च पर्वाण्याद्याश्ततस्त्रस्तु वर्जयेत् 95.
लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितम् 95.
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः 95.
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः 95.
श्वश्रूश्वशुरयोः कुर्य्यात्पादयोर्वन्दनं सदा 95.
हास्यं परगृहे यानं त्यजेत्प्रेषितभर्तृका 95.
वार्द्धक्ये रक्षते पुत्रो ह्यन्यथा ज्ञातयस्तथा 95.
ज्येष्ठां धर्मविधौ कुर्य्यान्न कनिष्ठां कदाचन 95.
आहरेद्विधिवद्दारानग्निं चैवाविलम्बितः 95.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तगृहल्थधर्मनिर्णयो नाम पञ्चनवतितमोऽध्यायः
वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम् 96.
जातोऽम्बष्ठस्तु शूद्रायां निषादः पर्वतोऽपि वा 96.
शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः 96.
शूद्राज्जातस्तु चांडालः सर्ववर्णविगर्हितः 96.
शूद्रादयोगवं वैश्या जनयामास वै सुतम् 96.
असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः 96.
व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम् 96.
दायकालादृते वापि श्रौतं वैतानिकाग्निषु 96.
प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् 96.
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च 96.
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा 96.
जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् 96.
भूतपित्रमरब्रह्ममनुष्याणां महामखाः 96.
अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत् 96.
स्वाध्यायमन्वहं कुर्य्यान्न पचेच्चान्नमात्मने 96.
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् 96.