श्रृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः 95.
समापितब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् 95.
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् 95.
दशपुरुषविख्याताच्छ्रोत्रियाणां महाकुलात् 95.
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः 95.
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् 95.
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता 95.
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् 95.
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने 95.
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः 95.
चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्वराक्षसौ 95.
पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् 95.
पिता पितामहो भ्राता सकुल्यो जननी तथा 95.
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ 95.
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् 95.
अपुत्रीगुर्वनुज्ञातो देवरः पुत्रकान्यगा 95.
आगर्भसम्भवं गच्छेत्पतितस्त्वन्यथा भवेत् 95.
हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् 95.
सोमः शौचं ददौ तासां गन्धर्वश्च शुभां गिरम् 95.
व्यभिचारादृतौशुद्धिर्गर्भेत्यागं करोति च 95.
सुरापी व्याधिता द्वेष्ट्री वन्ध्यार्थघ्न्यप्रियंवदा 95.
यत्राविरोधो दम्पत्योस्त्रिवर्गस्तत्त्र वर्द्धते 95.
सेह कीर्त्तिमवाप्नोति मोदते चोमया सह 95.
स्त्रीभिर्भर्तुर्वचः कार्य्यमेष धर्मः परः स्त्रियाः 95.
ब्रह्मचारी च पर्वाण्याद्याश्ततस्त्रस्तु वर्जयेत् 95.
लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितम् 95.
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः 95.
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः 95.
श्वश्रूश्वशुरयोः कुर्य्यात्पादयोर्वन्दनं सदा 95.
हास्यं परगृहे यानं त्यजेत्प्रेषितभर्तृका 95.