सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः 94.
ब्राह्मणक्षत्त्रिय विशस्तस्मादेते द्विजातयः 94.
वेद एव द्विजातीनां निः श्रेयसकरः परः 94.
पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि सोऽन्वहम् 94.
सन्तर्पयेत्पितॄन्देवान्सोऽन्वहं हि घृतामृतैः 94.
इतिहासांस्तथा विद्या योऽधीते शक्तितोऽन्वहम् 94.
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः 94.
भूमिदानस्य तपसः स्वाध्यायफलभाग्द्विजः 94.
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥ 94.
इत श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्मनिरूपणं नाम चतुर्नवतितमोऽध्यायः
श्रृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः 95.
समापितब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् 95.
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् 95.
दशपुरुषविख्याताच्छ्रोत्रियाणां महाकुलात् 95.
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः 95.
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् 95.
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता 95.
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् 95.
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने 95.
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः 95.
चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्वराक्षसौ 95.
पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् 95.
पिता पितामहो भ्राता सकुल्यो जननी तथा 95.
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ 95.
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् 95.
अपुत्रीगुर्वनुज्ञातो देवरः पुत्रकान्यगा 95.
आगर्भसम्भवं गच्छेत्पतितस्त्वन्यथा भवेत् 95.
हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् 95.
सोमः शौचं ददौ तासां गन्धर्वश्च शुभां गिरम् 95.
व्यभिचारादृतौशुद्धिर्गर्भेत्यागं करोति च 95.