साहूतश्चाप्यधीयीत सर्वं चास्मै निवेदयेत् 94.
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् 94.
आदिमध्यावसानेषु भवेच्छन्दोपलक्षिता 94.
कृताग्निकार्य्यो भुञ्जीत विनीतो गुर्वनुज्ञया 94.
ब्रह्मचार्य्यास्थितो नैकमन्नमद्यादनापदि 94.
मधु मांसं तथा स्विन्नमित्यादि परिवर्जयेत् 94.
उपनीय ददात्येनामाचार्य्यः स प्रकीर्त्तितः 94.
एते मान्या यथापूर्वमेभ्यो माता गरीयसी 94.
ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे 94.
ब्रह्मक्षत्त्रविशां काल औपनायनिकः परः 94.
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः 94.
ब्राह्मणक्षत्त्रिय विशस्तस्मादेते द्विजातयः 94.
वेद एव द्विजातीनां निः श्रेयसकरः परः 94.
पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि सोऽन्वहम् 94.
सन्तर्पयेत्पितॄन्देवान्सोऽन्वहं हि घृतामृतैः 94.
इतिहासांस्तथा विद्या योऽधीते शक्तितोऽन्वहम् 94.
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः 94.
भूमिदानस्य तपसः स्वाध्यायफलभाग्द्विजः 94.
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥ 94.
इत श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्मनिरूपणं नाम चतुर्नवतितमोऽध्यायः
श्रृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः 95.
समापितब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् 95.
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् 95.
दशपुरुषविख्याताच्छ्रोत्रियाणां महाकुलात् 95.
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः 95.
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् 95.
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता 95.
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् 95.
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने 95.
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः 95.