धर्मोपदेशकर्त्तृत्वं संप्राप्यागात्परं पदम् 92.
विष्णुध्यानं पठेद्यस्तु प्राप्नोति परमां गतिम् ॥ 92.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुध्यानं नाम द्विनवतितमोऽध्यायः
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कथं हरे ! 93.
हरिरुवाच अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः 93.
याज्ञवल्क्य उवाच पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ 93.
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश 93.
वसिष्ठदक्षसंवर्त्तशातातपपराशराः 93.
गौतमः शङ्खलिखितो हारीतोऽत्रिरहं तथा 93.
देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् 93.
इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च 93.
चत्वारो वेदधर्मज्ञाः परास्रैविद्यमेव वा 93.
ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः 93.
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा 93.
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः 93.
एवमेनः शमं याति बीजगर्भसमुद्भवम् 93.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्म्मनिरूपणं नाम त्रिनवतितमोऽध्यायः
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् 94.
उपनीय कुरुः शिष्यं महाव्याहृतिपूर्वकम् 94.
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः 94.
गृहीतशिश्रश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः 94.
अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः 94.
कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च 94.
त्रिः प्राश्यापो द्विरुन्मृज्य खान्याद्भिः समुपस्पृशेत् 94.
हृत्कण्ठतालुनाभिस्तु यथासंख्यं द्विजातयः 94.
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः 94.
गायत्त्रीं शिरसा सार्द्धं जपेद्व्याहृतिपूर्विकाम् 94.
प्राणानायम्य सम्प्रोक्ष्य त्र्यृचेनाब्दैवतेन तु 94.
सन्ध्यां प्राक् प्रातरेवं हि तिष्ठेदासूर्य्यदर्शनात् 94.
ततोऽभिवादयेद्वृद्वानसावहमिति ब्रुवन् 94.