हिरण्मयशरीरश्च चारुहारी शुभाङ्गदः 92.
श्रीवत्सकौस्तुभयुतो लक्ष्मीवन्द्येक्षणान्वितः 92.
मुनिध्येयोऽसुरध्येयो देवध्येयोऽतिसुन्दरः 92.
सनातनोऽव्ययो मेध्यः सर्वानुग्रहकृत्प्रभुः 92.
सन्तापनाशनोऽभ्यर्च्यो मङ्गल्यो दुष्टनाशनः 92.
चार्वङ्गुलीयसंयुक्तः सुदीप्तनख एव च 92.
सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः 92.
सर्वलोकहितैषी च सर्वेशः सर्वभावनः 92.
वासुदेवो जगद्धाता ध्येयो विष्णुर्मुमुक्षुभिः 92.
ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिम् 92.
धर्मोपदेशकर्त्तृत्वं संप्राप्यागात्परं पदम् 92.
विष्णुध्यानं पठेद्यस्तु प्राप्नोति परमां गतिम् ॥ 92.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुध्यानं नाम द्विनवतितमोऽध्यायः
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कथं हरे ! 93.
हरिरुवाच अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः 93.
याज्ञवल्क्य उवाच पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ 93.
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश 93.
वसिष्ठदक्षसंवर्त्तशातातपपराशराः 93.
गौतमः शङ्खलिखितो हारीतोऽत्रिरहं तथा 93.
देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् 93.
इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च 93.
चत्वारो वेदधर्मज्ञाः परास्रैविद्यमेव वा 93.
ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः 93.
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा 93.
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः 93.
एवमेनः शमं याति बीजगर्भसमुद्भवम् 93.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्म्मनिरूपणं नाम त्रिनवतितमोऽध्यायः
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् 94.
उपनीय कुरुः शिष्यं महाव्याहृतिपूर्वकम् 94.
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः 94.