वासनारहितं शुद्धं सर्वदोषविवर्जितम् 91.
जरामरणहीनं वै कूटस्थं मोहवर्जितम् 91.
सत्यं सर्वाचारहीनं निष्कलं परमेश्वरम् 91.
अध्यक्षं जाग्रदादीनां शान्तरूपं सुरेश्वरम् 91.
सर्वदृष्टं तथा मूर्त्तं सूक्ष्मं सूक्ष्मतरं परम् 91.
विश्वेन रहितं तद्वत्तैजसेन विवर्जितम् 91.
सर्वगोप्तृ सर्वहन्तृ सर्वभूतात्मरूपि च 91.
विक्रियारहितं चैव वेदान्तैर्वेद्यमेव च 91.
शब्देन वर्जितञ्चैव रसेन च विवर्जितम् 91.
रूपेण रहितञ्चैव गन्धेन परिवर्जितम् 91.
एवं ज्ञात्वा महादेवध्यानं कुर्य्याज्जितेन्द्रियः 91.
इति ध्यानं समाख्यातमश्विरस्य मया तव 91.
इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डे हरिध्यानं नामैकनवतितमोऽध्यायः
विष्णोर्ध्यानं पुनर्ब्रूहि शङ्खचक्रगदाधर 92.
प्रवक्ष्यामि हरेर्ध्यानं मायातन्त्रविमर्दकम् 92.
अमूर्त्तं रुद्र कथितं हन्त मूर्त्तं ब्रवीम्यहम् 92.
कुन्दगोक्षीरधवलो हरिर्ध्येयो मुमुक्षुभिः 92.
सहस्त्रादित्यतुल्येन ज्वालामालोग्ररूपिणा 92.
किरीटेन महार्हेण रत्नप्रज्वलितेन च 92.
वनमालाधरः शुभ्रः समांसो हेमभूषणः 92.
हिरण्मयशरीरश्च चारुहारी शुभाङ्गदः 92.
श्रीवत्सकौस्तुभयुतो लक्ष्मीवन्द्येक्षणान्वितः 92.
मुनिध्येयोऽसुरध्येयो देवध्येयोऽतिसुन्दरः 92.
सनातनोऽव्ययो मेध्यः सर्वानुग्रहकृत्प्रभुः 92.
सन्तापनाशनोऽभ्यर्च्यो मङ्गल्यो दुष्टनाशनः 92.
चार्वङ्गुलीयसंयुक्तः सुदीप्तनख एव च 92.
सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः 92.
सर्वलोकहितैषी च सर्वेशः सर्वभावनः 92.
वासुदेवो जगद्धाता ध्येयो विष्णुर्मुमुक्षुभिः 92.
ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिम् 92.