वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि 89.
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते 89.
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति 89.
यस्मिन् गेहे च लिखितमेतत्तिष्ठति नित्यदा 89.
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः 89.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा 90.
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् 90.
अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना 90.
तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् 90.
मार्कंडेय उवाच उद्दधार ततः कन्यां मानिनीं नाम नामतः ॥ 90.
नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः 90.
तस्यां तस्य सुतो जज्ञे महावीर्य्यो महाद्युतिः 90.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रम्लोचागमनं नाम नवतितमोऽध्यायः
स्वायम्भुवाद्या मुनयो हरिं ध्यायन्ति कर्मणा 91.
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् 91.
उदकेन विहीनं वै तद्धर्मपरिवर्जितम् 91.
भूताध्यक्षं तथा बद्धनियन्तारं प्रभुं विभुम् 91.
मुक्तसङ्गं महेशानं सर्वदेवप्रपूजितम् 91.
रहितं रजसा नित्यं व्यतिरिक्तं गुणैस्त्रिभिः 91.
वासनारहितं शुद्धं सर्वदोषविवर्जितम् 91.
जरामरणहीनं वै कूटस्थं मोहवर्जितम् 91.
सत्यं सर्वाचारहीनं निष्कलं परमेश्वरम् 91.
अध्यक्षं जाग्रदादीनां शान्तरूपं सुरेश्वरम् 91.
सर्वदृष्टं तथा मूर्त्तं सूक्ष्मं सूक्ष्मतरं परम् 91.
विश्वेन रहितं तद्वत्तैजसेन विवर्जितम् 91.
सर्वगोप्तृ सर्वहन्तृ सर्वभूतात्मरूपि च 91.
विक्रियारहितं चैव वेदान्तैर्वेद्यमेव च 91.
शब्देन वर्जितञ्चैव रसेन च विवर्जितम् 91.
रूपेण रहितञ्चैव गन्धेन परिवर्जितम् 91.