त्वं च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः 89.
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः 89.
आयुरारोग्यमर्थं च पुत्रपौत्रादिकं तथा 89.
श्राद्धेषु य इमं भक्त्या त्वस्मत्प्रीतिकरं स्तवम् 89.
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते 89.
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् 89.
अश्राद्धार्हैरुपतैरुपहारैस्तथा कृतैः 89.
अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य यत्कृतम् 89.
यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्तत्सुखावहम् 89.
हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति 89.
वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि 89.
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते 89.
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति 89.
यस्मिन् गेहे च लिखितमेतत्तिष्ठति नित्यदा 89.
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः 89.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा 90.
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् 90.
अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना 90.
तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् 90.
मार्कंडेय उवाच उद्दधार ततः कन्यां मानिनीं नाम नामतः ॥ 90.
नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः 90.
तस्यां तस्य सुतो जज्ञे महावीर्य्यो महाद्युतिः 90.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रम्लोचागमनं नाम नवतितमोऽध्यायः
स्वायम्भुवाद्या मुनयो हरिं ध्यायन्ति कर्मणा 91.
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् 91.
उदकेन विहीनं वै तद्धर्मपरिवर्जितम् 91.
भूताध्यक्षं तथा बद्धनियन्तारं प्रभुं विभुम् 91.
मुक्तसङ्गं महेशानं सर्वदेवप्रपूजितम् 91.
रहितं रजसा नित्यं व्यतिरिक्तं गुणैस्त्रिभिः 91.