रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् 89.
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा 89.
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ 89.
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः 89.
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः 89.
कल्याणः कल्यदः कर्त्ता कल्यः कल्यतराश्रयः 89.
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा 89.
महान्महात्मा महितो महिमावान्महाबलः 89.
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः 89.
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् 89.
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः 89.
तदॄष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् 89.
रुचिरुवाच नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ 89.
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा 89.
मन्वादीनां च नेतारः सूर्य्याचन्द्रमसोस्तथा 89.
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा 89.
प्रजापतेः कश्यपाय सोमाय वरुणाय च 89.
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु 89.
सोमाधारान्पितृगणान्योगमूर्त्तिधरांस्तथा 89.
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् 89.
ये च तेजसि ये चैते सोमसूर्य्याग्निमूर्त्तयः 89.
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः 89.
एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः 89.
निवेदनञ्च यत्तेन पुष्पगन्धानुलेपनम् 89.
प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः 89.
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् 89.
रुचिरुवाच सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजावतीम् ॥ 89.
पितर ऊचुः तस्याञ्च पुत्रो भविता भवतो मुनिसत्तम ! ॥ 89.
मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः 89.
तस्यापि बहवः पुत्रा महाबलपराक्रमाः 89.