नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः 89.
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः 89.
नमस्येऽहं पितॄश्राद्धै राजन्यास्तर्पयन्ति यान् 89.
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा 89.
नमस्येऽहं पितॄश्राद्धे शूद्रैरपि च भक्तितः 89.
नमस्येऽहं पितॄश्राद्धे पाताले ये महासुरैः 89.
नमस्येऽहं पितॄश्राद्धैरर्च्यन्ते ये रसातले 89.
नमस्येऽहं पितॄश्राद्धैः सर्पैः सन्तर्पितान्सदा 89.
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा 89.
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्त्ताः 89.
पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ 89.
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् 89.
सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति 89.
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः 89.
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च 89.
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् 89.
दिने दिने ये प्रतिगृह्णतेऽर्चां मासान्तपूज्या भुवि येऽष्टकासु 89.
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्त्रियाणां ज्वलनार्कवर्णाः 89.
तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन 89.
ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि 89.
रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् 89.
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा 89.
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ 89.
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः 89.
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः 89.
कल्याणः कल्यदः कर्त्ता कल्यः कल्यतराश्रयः 89.
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा 89.
महान्महात्मा महितो महिमावान्महाबलः 89.
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः 89.
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् 89.