मुनिः क्रौंचुकये प्राह मार्कण्डेयो महातपाः 88.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मज्ञानमा नामाष्टाशीतितमोऽध्यायः
पृष्टः क्रौञ्चुकिनोवाच मार्कण्डेयः पुनश्च तम् 89.
कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् चिन्तामवाप महीतमतीवोद्विग्नमानसः ॥ 89.
किं करोमि क्व गच्छामि कथं मे दारसंग्रहः 89.
इति चिन्तयतस्तस्यमतिर्जाता महात्मनः 89.
ततो वर्षशतं दिव्यं तपस्तेपे महामनाः आराधनाय स तदा परं नियममास्थितः ॥ 89.
ततः प्रदर्शयामास ब्रह्मा लोकपितामहः 89.
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम् 89.
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः 89.
कृत्वा कृताधिकारस्त्वं ततः सिद्धिमवाप्यसि 89.
कामं चेममभिध्याय क्रियतां पितृपूजनम् पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः ॥ 89.
इत्यृषिर्वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः 89.
तुष्टाव च पितॄन्विप्रः स्तवैरेभिरथादृतः 89.
नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम् 89.
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः 89.
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् 89.
नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि 89.
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा 89.
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा 89.
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः 89.
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः 89.
नमस्येऽहं पितॄश्राद्धै राजन्यास्तर्पयन्ति यान् 89.
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा 89.
नमस्येऽहं पितॄश्राद्धे शूद्रैरपि च भक्तितः 89.
नमस्येऽहं पितॄश्राद्धे पाताले ये महासुरैः 89.
नमस्येऽहं पितॄश्राद्धैरर्च्यन्ते ये रसातले 89.
नमस्येऽहं पितॄश्राद्धैः सर्पैः सन्तर्पितान्सदा 89.
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा 89.
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्त्ताः 89.