अनुत्पाद्य सुतान्देवानसन्तर्प्य पितॄस्तथा 88.
क्लेशबोधैककं पुत्रं अन्यायेन भवेत्तव 88.
परिग्रहोऽतिदुः खाय पापाया धोगतेस्तथा 88.
आत्मनः संशयोपायः क्रियते क्षणमन्त्रणात् 88.
प्रक्षाल्यतेऽनुदिवसं य आत्मा निष्परिग्रहः 88.
अनेकभवसंभूतकर्मपङ्काङ्कितो बुधैः 88.
पितर ऊचुः किं तु नोपायमार्गोऽयं यतस्त्वं पुत्र वर्त्तसे ॥ 88.
पञ्चयज्ञैस्तपोदानैरशुभं नुदतस्तव 88.
एवं न बन्धो भवति कुर्वतः कारणात्मकम् 88.
पूर्वकर्म कृतं भोगैः क्षीयते ह्यनिशन्तथा 88.
एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते 88.
रुचिरुवाच तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम् ॥ 88.
पितर उचुः किं तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः ॥ 88.
विहिताकरणानर्थो न सद्भिः क्रियते तु यः 88.
प्रक्षालयामीति भवान्यदेतन्मन्यते वरम् 88.
अविद्याप्युपकाराय विषवज्जायते नृणाम् 88.
तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम् 88.
वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रिदास्यति 88.
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः 88.
इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम 88.
मुनिः क्रौंचुकये प्राह मार्कण्डेयो महातपाः 88.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मज्ञानमा नामाष्टाशीतितमोऽध्यायः
पृष्टः क्रौञ्चुकिनोवाच मार्कण्डेयः पुनश्च तम् 89.
कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् चिन्तामवाप महीतमतीवोद्विग्नमानसः ॥ 89.
किं करोमि क्व गच्छामि कथं मे दारसंग्रहः 89.
इति चिन्तयतस्तस्यमतिर्जाता महात्मनः 89.
ततो वर्षशतं दिव्यं तपस्तेपे महामनाः आराधनाय स तदा परं नियममास्थितः ॥ 89.
ततः प्रदर्शयामास ब्रह्मा लोकपितामहः 89.
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम् 89.
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः 89.