कृतस्ततः पुराणानि विद्याश्चाष्टादशैव तु ८७.
पुराणं धर्मशास्त्रं च आयुर्वेदार्थशास्त्रकम् ८७.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मनुतद्वंशनिरूपणं नाम स्पताशीतितमोऽध्यायः
हरिर्मन्वन्तराण्याह ब्रह्मादिभ्यो हराय च 88.
मार्कण्डेय उवाच अत्रस्तोऽमितमायी च चचार पृथिवीमिमाम् ॥ 88.
अनग्निमनिकेतं तमेकाहारमनाश्रमम् 88.
पितर ऊचुः स्वर्गापवर्गहे (से)तुत्वाद्वन्धस्तेनानिशं (निमिषं) विना ॥ 88.
गृही समस्तदेवानां पितॄणां च तथार्हणम् 88.
स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितृन् 88.
सत्त्वं दैवादृणाद्वन्धमिममस्मदृणादपि 88.
अनुत्पाद्य सुतान्देवानसन्तर्प्य पितॄस्तथा 88.
क्लेशबोधैककं पुत्रं अन्यायेन भवेत्तव 88.
परिग्रहोऽतिदुः खाय पापाया धोगतेस्तथा 88.
आत्मनः संशयोपायः क्रियते क्षणमन्त्रणात् 88.
प्रक्षाल्यतेऽनुदिवसं य आत्मा निष्परिग्रहः 88.
अनेकभवसंभूतकर्मपङ्काङ्कितो बुधैः 88.
पितर ऊचुः किं तु नोपायमार्गोऽयं यतस्त्वं पुत्र वर्त्तसे ॥ 88.
पञ्चयज्ञैस्तपोदानैरशुभं नुदतस्तव 88.
एवं न बन्धो भवति कुर्वतः कारणात्मकम् 88.
पूर्वकर्म कृतं भोगैः क्षीयते ह्यनिशन्तथा 88.
एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते 88.
रुचिरुवाच तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम् ॥ 88.
पितर उचुः किं तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः ॥ 88.
विहिताकरणानर्थो न सद्भिः क्रियते तु यः 88.
प्रक्षालयामीति भवान्यदेतन्मन्यते वरम् 88.
अविद्याप्युपकाराय विषवज्जायते नृणाम् 88.
तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम् 88.
वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रिदास्यति 88.
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः 88.
इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम 88.