वक्ष्ये मनोर्भविष्यस्य सावर्ण्याख्यस्य वै सुतान् ८७.
वरिष्ठश्च गरिष्ठश्च वाचः सङ्गतिरेव च ८७.
ऋष्यश्रृङ्गस्तथा राम ऋषयः सप्त कीर्त्तिताः ८७.
तेषां गणस्तु देवाना मेकैको विंशकः स्मृतः ८७.
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ८७.
वारुणेर्दक्षसावर्णेर्नवमस्य सुताञ्छृणु पृथुश्रवा बृहदूद्युम्न ऋचीको बृहतो गुणः ॥ ८७.
मेधातिथिर्द्युतिश्चैव सबलो वसुरेव च ८७.
परो मरीचिर्गर्भश्च स्व (सु) धर्माणश्च ते त्रयः ८७.
(भविष्यन्ति तदा देवा एकैको द्वादशो गणः ) धर्मपुत्रस्य पुत्रांस्तु दशमस्य मनोः श्रृणु ८७.
शतानीको निरमित्रो वृषसेनो जयद्रथः ८७.
अयो (पो) मूर्त्तिर्हविष्मांश्च सुकृतिश्चाव्ययस्तथा ८७.
प्राणाख्याः शतसंख्यास्तु देवतानां गणस्तदा बलिः शत्रुस्तं हरिश्च गदया घातयिष्यति ॥ ८७.
रुद्र पुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ८७.
क्षेत्रवर्णो दृढेषुश्च आर्द्रकः पुत्रकस्तथा ८७.
विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्त्तिताः ८७.
एकैकस्त्रिंशकस्तेषां गणश्चैन्द्रश्च वै वृषः ८७.
मनोस्तु दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ८७.
मित्रवान्मित्रदेवश्च मित्रबिन्दुश्च वीर्य्यवान् ८७.
तपस्वी सुतपाश्चैव तपोमूर्त्तिस्तपोरतिः ८७.
स्वधर्माणः सुतपसो हरितो रोहितास्तथा ८७.
ऋतधामा च भद्रे (तत्रे) न्द्रस्तारको नाम तद्रिपुः ८७.
त्रयोदशस्य रौच्यस्य मनोः पुत्राम्निबोध मे ८७.
सुनेत्रः क्षेत्रवृत्तिश्च सुनयो धर्मपो दृढः ८७.
निर्मोहस्तत्त्वदर्शो च ऋषयः सप्त कीर्त्तिताः ८७.
त्रयस्त्रिंशद्विभेदास्ते देवानां तत्र वै गणाः ८७.
मायूरेण च रूपेण घातयिष्यति माधवः ८७.
उरुर्गभीरो धृष्टश्च तरस्वीग्रा (ग्र) ह एव च तेजस्वी दुर्लभश्चैव भौत्यस्यैते मनोः सुताः ॥ ८७.
अग्नीध्रश्चाग्निबाहुश्च मागधश्च तथा शुचिः ८७.
चाक्षुषाः कर्मनिष्ठाश्च पवित्रा भ्राजिनस्तथा ८७.
शुचिरिन्द्रो महादैत्यो रिपुहन्ता हरिः स्वयम् ८७.