जयाख्याशाचमिताख्याश्च शुक्रा यामास्तथैव च ८७.
विश्वभुग्वामदेवेन्द्रो बाष्कलिस्तदरिर्ह्यभूत् ८७.
मनुः स्वारोचिषश्चाथ तत्पुत्रो मण्डलेश्वरः ८७.
बृहद्गुणो नभश्चैव महाबलपराक्रमः ८७.
दत्तो (म्भो) लिश्चावरीवांश्च ऋष्यः सप्तकीर्त्तिताः ८७.
इन्द्रो विपश्चिद्देवानां तद्रिपुः पुरुकृत्सरः ८७.
औत्तमस्य मनोः पुत्रा आजश्च परशुस्तथा ८७.
देवो देवावृधो रुद्र ! महोत्साहोजितस्तथा ८७.
सुतपाः शङ्कुरित्येते ऋषयः सप्त कीर्त्तिताः ८७.
पञ्च देवगणाः प्रोक्ता सर्वे द्वादशकास्तु ते ८७.
मत्स्यरूपी हरिर्विष्णुस्तं जघान च दानवम् ८७.
नवख्यातिर्नयश्चैव प्रियभृत्यो विविक्षिपः ८७.
ज्योतिर्धामा पृथुः (धृष्ट) काव्यश्चैत्रश्चेताग्निहेमकाः (कौ) ८७.
हरयो देवतानां च चत्वारः पञ्च (सप्त) विंशकाः ८७.
हरिणा कूर्मरूपेण हतो भीमरथोऽसुरः ८७.
वन (ल) बन्धुर्निरमित्रः प्रत्यङ्गः परहा शुचिः ८७.
वेदश्रीर्वेदबाहुश्च ऊर्द्ध्वबाहुस्तथैव च ८७.
अभूतरजसश्चैव तथा देवाश्वमेधसः ८७.
गणे चतुर्दश सुरा विभुरिन्द्रः प्रतापवान् ८७.
चाक्षुषस्य मनोः पुत्रा उरुः पुरुर्महाबलः ८७.
अग्निष्णुरतिरात्रश्च सुद्युम्नश्च तथा नरः ८७.
अभिमानः सहिष्णुश्च मधुश्रीऋर्षयः स्मृताः ८७.
अष्टकस्य गणाः पञ्च तथा प्रोक्ता दिवौकसाम् ८७.
अश्वरूपेण स हतो हरिणा लोकधारिणा ८७.
इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ८७.
करूषश्च पृषध्रश्च सुद्युम्नश्च मनोः सुताः ८७.
गौतमश्च भरद्वाजो विशामित्रोऽथ सप्तमः ८७.
आदित्या वसवः साध्यागणा द्वादशकास्रयः ८७.
द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दशा ८७.
तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः ८७.