अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् 86.
वस्त्राणि मुकुटं घण्टां चामरं प्रेक्षणीयकम् 86.
तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः 86.
भार्य्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् 86.
वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात् 86.
जगन्नाथं येऽप्चयन्ति सुभद्रां बलभद्रकम् 86.
पुरुषोत्तमराजस्य सूर्य्यस्य च गणस्य च 86.
नत्वा कपर्द्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते 86.
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते 86.
रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् 86.
विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं संपूज्य च श्रियम् 86.
क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते 86.
नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते 86.
बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात् 86.
सर्वान्कामानवाप्नोति संपूज्य पुरुषोत्तमम् 86.
स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत् 86.
मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत् 86.
सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयात् 86.
रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत् 86.
कालेश्वरं समभ्यर्च्य नरः कालञ्जयो भवेत् 86.
सिद्धेश्वरं च संपूज्य सिद्धो ब्रह्मपुरं व्रजेत् 86.
कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः 86.
कामान्संप्राप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् 86.
सर्वार्थी सर्वमाप्नोति संपूज्यादिगदाधरम् 86.
वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम् 86.
ब्रह्मलोकमवाप्नोति संपूज्यादिगदाधरम् 86.
तथा शिलादिरूपश्च श्रेष्ठश्चैव गदाधरः 86.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमोऽध्यायः
चतुर्दशमनून्वक्ष्ये तत्सुताश्च शुकादिकान् ८७.
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ८७.