ये मे पितृकुले जाताः कुले मातुस्तथैव च 85.
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः 85.
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम 85.
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा 85.
आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर 85.
महानदी ब्रह्मसरोऽक्षयो वटः प्रभासमुद्यन्तमहो ? गयाशिरः 85.
इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमोऽध्यायः
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता 86.
धर्मेण धारिता भूत्यै सर्वदेवमयी शिला 86.
तेषामुद्धरणार्थाय यतः प्रेतशिला शुभा 86.
तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः 86.
मुण्डपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम् 86.
अरविन्दवनं तेषु तेन चैवोपलक्षितः 86.
तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः 86.
शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला 86.
कालान्तरेण व्यक्तश्चस्थित आदिगदाधरः 86.
धर्म संरक्षणार्थाय अधर्मादिविनष्टये 86.
कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः 86.
तथा व्यक्तोऽव्यक्तरूपी आसीदादिर्गदाधरः 86.
पाद्याद्यैर्गन्धपुष्पाद्यैरत आदिगदाधरः 86.
अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम् 86.
वस्त्राणि मुकुटं घण्टां चामरं प्रेक्षणीयकम् 86.
तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः 86.
भार्य्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम् 86.
वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात् 86.
जगन्नाथं येऽप्चयन्ति सुभद्रां बलभद्रकम् 86.
पुरुषोत्तमराजस्य सूर्य्यस्य च गणस्य च 86.
नत्वा कपर्द्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते 86.
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते 86.
रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान् 86.