सर्वे मुक्ता विशालोऽपि सपुत्रोऽभुच्च पिंडदः 84.
कथं पुत्रादयः स्युर्मे विप्राश्चोतुर्विशालकम् 84.
विशालोऽथ गयाशीर्ष पिण्डदोऽभूच्च पुत्रवान् 84.
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम् 84.
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम् 84.
अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डदः 84.
कृतकृत्यो विशालोऽपि राज्यं कृत्वा दिवं ययौ 84.
ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिस्सृताः 84.
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् 84.
माता पितामही चैव तथैव प्रपितामही 84.
वृद्धप्रमातामहश्च तथा मातामही परम् 84.
अन्येषां चैव पिंडोऽयमक्षय्यमुपतिष्ठताम् ॥ 84.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमोऽध्यायः
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च 85.
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते 85.
पितृवंशे मृता ये च मातृवंशे च ये मृताः 85.
मातामहकुले ये च गतिर्येषां न विद्यते 85.
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः 85.
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ 85.
उद्बन्धनमृता ये च विषशस्रहताश्च ये 85.
अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये 85.
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे 85.
रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः 85.
असिपत्रवने घोरे कुम्भीपाके च ये गताः 85.
अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् 85.
पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः 85.
असंख्ययातनासंस्था ये नीता यमशासनैः 85.
जात्यन्तरसहस्त्रेषु भ्रमन्ति स्वेन कर्मणा 85.
ये बान्धवाऽबान्धवा वा येऽन्यजन्मनि बान्धवाः 85.
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम 85.