स तत्फलमवाप्नोति कृत्वा श्राद्धं गयाशिरे 84.
पितरो यान्ति देवत्वं नात्र कार्य्या विचारणा 84.
अल्पेन तपसा तत्र महापुण्यमवाप्नुयात् 84.
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः 84.
पिण्डान्दद्यात्पितॄणां च सकलं तारयेत्कुलम् 84.
एकस्मिन् भोजिते विप्र कोटिर्भवति भोजिताः 84.
अक्षयान्लभते लोकान्कुलानामुद्धरेच्छतम् 84.
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् 84.
मम नाम्ना गयाशीर्षे पिण्डनिर्वपणं कुरु 84.
श्रुत्वा वणिग्गयाशीर्ष प्रेतराजाय पिण्डकम् 84.
सर्वे मुक्ता विशालोऽपि सपुत्रोऽभुच्च पिंडदः 84.
कथं पुत्रादयः स्युर्मे विप्राश्चोतुर्विशालकम् 84.
विशालोऽथ गयाशीर्ष पिण्डदोऽभूच्च पुत्रवान् 84.
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम् 84.
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम् 84.
अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डदः 84.
कृतकृत्यो विशालोऽपि राज्यं कृत्वा दिवं ययौ 84.
ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिस्सृताः 84.
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् 84.
माता पितामही चैव तथैव प्रपितामही 84.
वृद्धप्रमातामहश्च तथा मातामही परम् 84.
अन्येषां चैव पिंडोऽयमक्षय्यमुपतिष्ठताम् ॥ 84.
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमोऽध्यायः
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च 85.
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते 85.
पितृवंशे मृता ये च मातृवंशे च ये मृताः 85.
मातामहकुले ये च गतिर्येषां न विद्यते 85.
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः 85.
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ 85.
उद्बन्धनमृता ये च विषशस्रहताश्च ये 85.