सोमकुण्डे नरः स्नात्वा सोमलोकं च गच्छति 83.
धौतपापो नरो याति प्रेतकुण्डे च पिण्डदः 83.
एवमादिषु तीर्थेषु पिण्डदस्तारयेत्पितॄन् 83.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम त्र्यशीतितमोऽध्यायः
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः 84.
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् 84.
गृहाच्चलितमात्रस्य गयायां गमनं प्रति 84.
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः 84.
दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत् 84.
पुनः पुनामहानद्यां श्राद्धी स्वर्गं पितॄन्नयेत् 84.
तस्मिन्निवर्त्तयेच्छ्राद्धं स्नानं चैव निवर्त्तयेत् 84.
दक्षिणं मानसं गत्वा मौनी पिण्डादि कारयेत् 84.
सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः 84.
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् 84.
तत्र स्नात्वा दिवं याति श्राद्धं दत्तमथाक्षयम् 84.
कव्यवाहस्तथा सोमो यमश्चैवार्य्यमा तथा 84.
आगच्छन्तु महाभागा युषमाभी रक्षितास्त्विह 84.
तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम् 84.
गदाधरं ततः पश्येत्पितॄणामनृणामनृणो भवेत् 84.
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् 84.
धर्मारण्यं मतङ्गस्य वाप्यां पिण्डादिकृद्भवेत् 84.
राजसूयाश्वमेधाभ्यां फलं स्याद्ब्रह्मतीर्थके 84.
कूपोदकेन तत्कार्य्यं पितॄणां दत्तमक्षयम् 84.
कृत्वा श्राद्धादिकं पिण्डं मध्ये वै यूपकूपयोः 84.
तेषां सेवनमात्रेण पितरो मोक्षगामिनः 84.
फल्गुतीर्थे चतुर्थेऽहनि स्नात्वा देवादितर्पणम् 84.
पिण्डान्देहिमुखे व्यासे पंचाग्नौ च पदत्रये 84.
श्राद्धं तु नवदेवत्यं कुर्य्याद्द्वादशदैवतम् 84.
अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह 84.
रुद्रपादं नरः स्पृष्ट्वा न चेहावर्त्तते पुनः 84.