यत्र माहेश्वरी धारा श्राद्धी तत्रानृणो भवेत् 83.
अग्निष्टोममवाप्नोति श्राद्धी प्रायाद्दिवं नरः 83.
रविपादे पिण्डदानात्पतितोद्धारणं भवेत् 83.
कांक्षन्ते पितरः पुत्रान्नरकाद्भयभीरवः 83.
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् 83.
आत्मजो वा तथान्यो वा गयाकूपे यदा तदा 83.
पुण्डरीकं विष्णुलोकं प्राप्नुयात्कोटितीर्थगः 83.
सावतीर्णा गयाक्षेत्रे पितॄणां तारणाय हि 83.
एकविंशतिवंश्यान्स तारयेन्नात्र संशयः 83.
तानेव भोजयेद्विप्रान्ब्रह्मणा ये प्रकल्पिताः 83.
ब्रह्मप्रकल्पितं स्थानं विप्रा ब्रह्मप्रकल्पपिताः 83.
तर्पयेत्तु गयाविप्रान्हव्यकव्यैर्विधानतः 83.
यः करोति वृषोत्सर्गं गयाक्षेत्रे ह्यनुत्तमे 83.
आत्मनोऽपि महाबुद्धिर्गयायां तु तिलैर्विना 83.
यावन्तो ज्ञातयः पित्र्या बान्धवाः सुहृदस्तथा 83.
रामतीर्थे नरः स्नात्वा गोशतस्याप्नुयात्फलम् 83.
निश्चिरासङ्गमे स्नात्वा ब्रह्मलोकं नयेत्पितॄन् 83.
महाकौश्यां समावासादश्वमेधफलं लभेत् 83.
समीपे त्वग्निधारेति विश्रुता कपिला हि सा 83.
श्राद्धी कुमारधारायामश्वमेधफलं लभेत् 83.
सोमकुण्डे नरः स्नात्वा सोमलोकं च गच्छति 83.
धौतपापो नरो याति प्रेतकुण्डे च पिण्डदः 83.
एवमादिषु तीर्थेषु पिण्डदस्तारयेत्पितॄन् 83.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम त्र्यशीतितमोऽध्यायः
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः 84.
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् 84.
गृहाच्चलितमात्रस्य गयायां गमनं प्रति 84.
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः 84.
दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत् 84.
पुनः पुनामहानद्यां श्राद्धी स्वर्गं पितॄन्नयेत् 84.