हंसतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते 83.
ब्रह्मलोकं नयेच्छ्राद्धी पुरुषानेकविंशतिम् 83.
श्राद्धी रामह्रदे ब्रह्मलोकं पितृकुलं नयेत् 83.
दक्षिणे मानसे श्राद्धी ब्रह्मलोकं पितॄन्नयेत् भीष्मतर्पणकृत्तस्य कूटे तारयते पितॄन् 83.
श्राद्धी च धेनुकारण्ये ब्रह्मलोकं पितॄन्नयेत् 83.
ऐन्द्रे वा नरतीर्थे च वासवे वैष्णवे तथा 83.
गायत्त्रे चैव सावित्रे तीर्थे सारस्वते तथा 83.
पितॄणां तु कुलं ब्रह्मलोकं नयति मानवः 83.
तर्पयित्वा पितॄन्देवान्न विशेद्योनिसङ्कटे 83.
धर्मारण्ये मतङ्गस्य वाप्यां श्राद्धाद्दिवं व्रजेत् 83.
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः 83.
रामतीर्थे नराः स्नात्वा श्राद्धं कृत्वा प्रभासके 83.
श्राद्धकृच्छ स्वपुष्टायां त्रिः सफ्तकुंलमुद्धरेत् 83.
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते 83.
अक्षयं फलमाप्नोति ब्रह्मलोकं नयेत्पितॄन् 83.
एष पिण्डे मया दत्तस्तव हस्ते जनार्दन ! 83.
ब्रह्मलोकमवाप्नोति पितृभिः सह निश्चितम् 83.
गयाशीर्षेऽक्षयवटे पितॄणां दत्तमक्षयम् 83.
दृष्ट्वैतानि पितॄंश्चार्यवंश्यान्विंशतिमुद्धरेत् 83.
पूर्वो ब्रह्मसदो भागो नागाद्रिर्भरताश्रमः 83.
गयाशीर्षाद्दक्षिणतो महानद्याश्च पश्चिमे 83.
श्राद्धी तत्र तृतीयायां निश्चिरायाश्च मण्डले 83.
वैतरण्या श्चोत्तरतस्तृतीयाख्यो जलाशयः 83.
क्रौञ्चपादादुत्तरतो निश्चिराख्यो जलाशयः 83.
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितः 83.
अक्षयान्प्राप्नुयाल्लोकान्कुलं चापि समुद्धरेत् 83.
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ 83.
गयायां मुण्डपृष्ठं च अरविन्दं च पर्वतम् 83.
मकरे वर्त्तमाने च ग्रहणे चन्द्रसूर्य्ययोः 83.
महाह्रदे च कौशिक्यां मूलक्षेत्रे विशेषतः 83.