कोटीश्वरं चाश्वमेधं दृष्ट्वा स्यादृणनाशनम् 83.
रामेश्वरं गदालोलं दृष्ट्वा स्वर्गमवाप्नुयात् 83.
मुण्डपृष्ठे महाचण्डीं दृष्ट्वा कामानवाप्नुयात् 83.
गोमकं गोपतिं देवं पितॄणामनृणो भवेत् 83.
मार्कण्डेयेश्वरं दृष्ट्वा पितॄणामनृणो भवेत् 83.
एतेन किं न पर्य्याप्तं नॄणां सुकृतकारिणाम् 83.
पृथिव्यां यानि तीर्थानि ये समुद्राः सरांसि च 83.
पृथिव्यां च गया पुण्या गयायां च गयाशिरः 83.
उदीचि कनकानद्यो नाभितीर्थं तु मध्यतः 83.
कूपे पिण्डादिकं कृत्वा पितॄणामनृणो भवेत् 83.
हंसतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते 83.
ब्रह्मलोकं नयेच्छ्राद्धी पुरुषानेकविंशतिम् 83.
श्राद्धी रामह्रदे ब्रह्मलोकं पितृकुलं नयेत् 83.
दक्षिणे मानसे श्राद्धी ब्रह्मलोकं पितॄन्नयेत् भीष्मतर्पणकृत्तस्य कूटे तारयते पितॄन् 83.
श्राद्धी च धेनुकारण्ये ब्रह्मलोकं पितॄन्नयेत् 83.
ऐन्द्रे वा नरतीर्थे च वासवे वैष्णवे तथा 83.
गायत्त्रे चैव सावित्रे तीर्थे सारस्वते तथा 83.
पितॄणां तु कुलं ब्रह्मलोकं नयति मानवः 83.
तर्पयित्वा पितॄन्देवान्न विशेद्योनिसङ्कटे 83.
धर्मारण्ये मतङ्गस्य वाप्यां श्राद्धाद्दिवं व्रजेत् 83.
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः 83.
रामतीर्थे नराः स्नात्वा श्राद्धं कृत्वा प्रभासके 83.
श्राद्धकृच्छ स्वपुष्टायां त्रिः सफ्तकुंलमुद्धरेत् 83.
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते 83.
अक्षयं फलमाप्नोति ब्रह्मलोकं नयेत्पितॄन् 83.
एष पिण्डे मया दत्तस्तव हस्ते जनार्दन ! 83.
ब्रह्मलोकमवाप्नोति पितृभिः सह निश्चितम् 83.
गयाशीर्षेऽक्षयवटे पितॄणां दत्तमक्षयम् 83.
दृष्ट्वैतानि पितॄंश्चार्यवंश्यान्विंशतिमुद्धरेत् 83.
पूर्वो ब्रह्मसदो भागो नागाद्रिर्भरताश्रमः 83.