समुद्राः सरितः सर्वा वापीकूपह्रदास्तथा 82.
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः 82.
असंस्कृता मृता य च पशुचोरहताश्च ये 82.
गयायां पिण्डदानेन यत्फलं लभते नरः 82.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम द्व्यशीतितमोऽध्यायः
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम् 83.
मुण्डपृष्ठं तु पूर्वस्मिन्पश्चिमे दक्षिणोत्तरे 83.
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः 83.
नगाज्जनार्दनाच्चैव कूपाच्चोत्तरमानसात् 83.
तत्र पिण्डप्रदानेन पितॄणा परमा गतिः 83.
गयायां पितृरूपेण देवदेवो जनार्द्दनः 83.
रथमार्गं गयतीर्थे दृष्ट्वा रुद्रपदादिके 83.
दृष्ट्वा पितामहं देवं सर्वपापैः प्रमुच्यते 83.
तथा गदाधरं देवं माधवं पुरुषोत्तमम् 83.
मौनादित्यं महात्मानं कनकार्कं विशेषतः 83.
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् 83.
सन्ध्यां कृत्वा प्रयत्नेन सर्ववेदफलं लभेत् 83.
सरस्वतीं च सायाह्ने दृष्ट्वा दानफलं लभेत् 83.
धर्मारण्यं धर्ममीशं दृष्ट्वा स्यादृणनाशनम् 83.
धेनुं दृष्ट्वा धेनुवने ब्रह्मलोकं नयेत्पितॄन् 83.
कोटीश्वरं चाश्वमेधं दृष्ट्वा स्यादृणनाशनम् 83.
रामेश्वरं गदालोलं दृष्ट्वा स्वर्गमवाप्नुयात् 83.
मुण्डपृष्ठे महाचण्डीं दृष्ट्वा कामानवाप्नुयात् 83.
गोमकं गोपतिं देवं पितॄणामनृणो भवेत् 83.
मार्कण्डेयेश्वरं दृष्ट्वा पितॄणामनृणो भवेत् 83.
एतेन किं न पर्य्याप्तं नॄणां सुकृतकारिणाम् 83.
पृथिव्यां यानि तीर्थानि ये समुद्राः सरांसि च 83.
पृथिव्यां च गया पुण्या गयायां च गयाशिरः 83.
उदीचि कनकानद्यो नाभितीर्थं तु मध्यतः 83.
कूपे पिण्डादिकं कृत्वा पितॄणामनृणो भवेत् 83.