गोदावरी महातीर्थं पयोष्णी वरदा नदी 81.
गोकर्णं परमं तीर्थं तीर्थं माहिष्मती पुरी 81.
कृते शौचे मुक्तिदं च शार्ङ्गधारी तदन्तिके 81.
नन्दितीर्थं मुक्तिदं च कोटितीर्थफलप्रदम् 81.
कृष्णवेणीं भीमरथीं गण्डकीं या त्विरावती 81.
ब्रह्मध्यानं परं तीर्थं तीर्थमिन्द्रियनिग्रहः 81.
ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे 81.
इदं तीर्थमिदं नेति ये नरा भेददर्शिनः 81.
सर्वं ब्रह्मेतियोऽवेति नातीर्थं तस्य किञ्चन 81.
सर्वा नद्यः सर्वशैलाः तीर्थं देवादिसेवितम् 81.
सप्तगोदावरं तीर्थं तीर्थं कोणगिरिः परम् 81.
सह्याद्रौ देवदेवेश एकवीरः सुरेश्वरी 81.
स्नात्वा कनखले तीर्थे स भवेन्न पुनर्भवे सूत उवाच 81.
श्रुत्वाऽब्रवीद्धरेर्ब्रह्मा व्यासं दक्षादिसंयुतम् गयाख्यं प्राह सर्वेषामक्षयं ब्रह्मलोकदम् ॥ 81.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्वतीर्थ माहात्म्यं नामैकाशीतितमोऽध्यायः
(अथ गयामाहात्म्यं प्रारभ्यते) सारात्सारतरं व्यास गयामाहात्म्यमुत्तमम् 82.
गयासुरोऽभवत्पूर्वं वीर्य्यवान्परमः स च 82.
तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः 82.
पात्यतेऽस्य महादेहो तथेत्यूचुः सुरा हरिम् 82.
आनीय कीकटे देशे शयनं चाकरोद्वली 82.
अतो गदाधरो विष्णुर्गयायां मुक्तिदः स्थितः 82.
जनार्द्दनश्च कालेशस्तथान्यः प्रपितामहः 82.
यज्ञं श्राद्धं पिण्डदानं स्नानादि कुरुते नरः 82.
गयातीर्थं परं ज्ञात्वा यागं चक्रे पितामहः 82.
महानदीं रसवहां सृष्ट्वा वाप्यादिकं तथा 82.
पञ्चक्रोशं गया क्षेत्रं ब्राह्मणेभ्यो ददौ प्रभुः 82.
स्थिता विप्रास्तदा शप्ता गयायां ब्राह्मणास्ततः 82.
युष्माकं स्याद्वारिवहा नदी पाषाणपर्वतः 82.
लोकाः पुण्या गयायां हि श्राद्धिनो ब्रह्मलोकगाः 82.
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा 82.