अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात् 80.
धनधान्यकरं लोके विषार्त्तिभयनाशनम् स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥ 80.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमोऽध्यायः
सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा 81.
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे 81.
सेवनात्कृतपिण्डानां पापजित्कामदं नृणाम् 81.
कुरुक्षेत्रं परं तीर्थं दानाद्यैर्भुक्तिमुक्तिदम् 81.
द्वारका च पुरी रम्या भुक्तिमुक्तिप्रदायिका 81.
केदारं सर्वपापघ्नं स (श) म्भलग्राम उत्तमः 81.
श्वेतद्वीपं पुरी माया नैमिषं पुष्करं परम् 81.
वैनायकं महीतीर्थं रामगिर्य्याश्रमं परम् 81.
रामेश्वरं परं तीर्थं कार्त्तिकेयं तथोत्तमम् 81.
उज्जयिन्यां महाकालः कुब्जके श्रीधरो हरिः 81.
महाकेशी च कावेरी चन्द्रभागा विपाशया 81.
मथुरा च पुरी रम्या शोणश्चैव महानदः 81.
सूर्य्यः शिवो गणो देवी हरिर्यत्र च तिष्ठति 81.
पूजा श्राद्धं पिण्डदानं सर्वं भवति चाक्षयम् 81.
कोकामुखं च वाराहं भा (भु) ण्डीरं स्वामिसंज्ञकम् 81.
कामरूपं महातीर्थं कामाख्या (क्षा) यत्र तिष्ठति 81.
विरजस्तु महातीर्थं तीर्थं श्रीपुरुषोत्तमम् 81.
गोदावरी महातीर्थं पयोष्णी वरदा नदी 81.
गोकर्णं परमं तीर्थं तीर्थं माहिष्मती पुरी 81.
कृते शौचे मुक्तिदं च शार्ङ्गधारी तदन्तिके 81.
नन्दितीर्थं मुक्तिदं च कोटितीर्थफलप्रदम् 81.
कृष्णवेणीं भीमरथीं गण्डकीं या त्विरावती 81.
ब्रह्मध्यानं परं तीर्थं तीर्थमिन्द्रियनिग्रहः 81.
ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे 81.
इदं तीर्थमिदं नेति ये नरा भेददर्शिनः 81.
सर्वं ब्रह्मेतियोऽवेति नातीर्थं तस्य किञ्चन 81.
सर्वा नद्यः सर्वशैलाः तीर्थं देवादिसेवितम् 81.