हुतभुग्रूपमादाय दानवस्य यथेप्सितम् 78.
तत्रेन्द्रगोपकलितं शुकवक्रवर्णं संस्थानतः प्रकटपीनसमानमात्रम् 78.
मध्येन्दुपाण्डुरमतीव विशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तुले स्यात् 78.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुधिराक्षरत्नपरीक्षणं नामाष्टसप्ततितमोऽध्यायः
कावेरविन्ध्ययवनचीननेपालभूमिषु 79.
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः 79.
न त्तुल्यं हि रत्नानामथवा पापनाशनम् 79.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्फटिकपरीक्षणं नामैकोनाशीतितमोऽध्यायः
आदाय शेषस्तस्यान्त्रं बलस्य केरलादिषु 80.
तत्र प्रधानं शशलोहिताभं गुञ्जाजवापुष्पनिभं प्रदिष्टम् 80.
अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात् 80.
धनधान्यकरं लोके विषार्त्तिभयनाशनम् स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥ 80.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमोऽध्यायः
सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा 81.
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे 81.
सेवनात्कृतपिण्डानां पापजित्कामदं नृणाम् 81.
कुरुक्षेत्रं परं तीर्थं दानाद्यैर्भुक्तिमुक्तिदम् 81.
द्वारका च पुरी रम्या भुक्तिमुक्तिप्रदायिका 81.
केदारं सर्वपापघ्नं स (श) म्भलग्राम उत्तमः 81.
श्वेतद्वीपं पुरी माया नैमिषं पुष्करं परम् 81.
वैनायकं महीतीर्थं रामगिर्य्याश्रमं परम् 81.
रामेश्वरं परं तीर्थं कार्त्तिकेयं तथोत्तमम् 81.
उज्जयिन्यां महाकालः कुब्जके श्रीधरो हरिः 81.
महाकेशी च कावेरी चन्द्रभागा विपाशया 81.
मथुरा च पुरी रम्या शोणश्चैव महानदः 81.
सूर्य्यः शिवो गणो देवी हरिर्यत्र च तिष्ठति 81.
पूजा श्राद्धं पिण्डदानं सर्वं भवति चाक्षयम् 81.
कोकामुखं च वाराहं भा (भु) ण्डीरं स्वामिसंज्ञकम् 81.
कामरूपं महातीर्थं कामाख्या (क्षा) यत्र तिष्ठति 81.
विरजस्तु महातीर्थं तीर्थं श्रीपुरुषोत्तमम् 81.