इत्थं मणिविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥ 73.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्य्यपरीक्षणं नाम त्रिसप्ततितमोऽध्यायः
पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः 74.
आपीतपाण्डुरुचिरः पाषाणः पद्मरागसंज्ञस्तु 74.
आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः 74.
अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात् 74.
मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नसारविदा 74.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुष्परागपरीक्षणं नाम चतुः सप्ततितमोऽध्यायः
वायुर्नखान्दैत्यपतेर्गृहीत्वा चिक्षेप सत्पद्मवनेषु हृष्टः 75.
वर्णेन तद्रुधिरसोममधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति 75.
स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः 75.
पात्रेण काञ्चनमयेन तु वेष्टयित्वा तप्तं यदा हुतवहे भवति प्रकाशम् 75.
एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभलङ्कृतये नरा ये 75.
एकेऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः 75.
कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम् 75.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्केतनपरीक्षणं नाम पञ्चसप्ततितमोऽध्यायः
सूत उवाच संप्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ 76.
शुक्लाः शङ्खाब्जनिभाः स्योनाकसन्निभाः प्रभावन्तः 76.
हेमादिप्रतिबद्धाः शुद्धमपि श्रद्धया विधत्ते यः 76.
निरीक्ष्य पलायन्ते यं तमरण्यनिवासिनः समीपेऽपि 76.
तसोयत्कलतष्टतरोर्भवति भयं न चास्तीशमुपहसन्ति 76.
पितॄतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ 76.
शैवलबलाहकाभं पुरुषं पीतप्रभं प्रभाहीनम् 76.
मूल्यं प्रकल्प्यमेषां विबुधवरैर्दैशकालविज्ञानात् 76.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्य्यपरीक्षणं नाम षट्सप्ततितमोऽध्यायः
पुण्येषु पर्वतवरेषु च निम्नगासु स्थानान्तरेषु च तथोत्तरदेशगत्वात् 77.
दाशार्णवागदर (व) मेकलकालगादौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः 77.
शङ्खाब्जभृङ्गार्कविचित्रभङ्गा सूत्रैरु (र्व्य) पेताः परमाः पवित्राः 77.
काका (क.) श्वरासभसृगालवृकोग्ररूपैर्गृध्रैः समांसरुधिरार्द्रमुखैरुपेताः 77.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुलकपरीक्षणं नाम सप्तसप्ततितमोऽध्यायः