अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान् 6.
संह्रादपुत्र आयुष्मान्शिविर्बाष्कल एव च 6.
बलेः पुत्रशतं त्वासीद्वाणज्येष्ठं वृषध्वज ! 6.
उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा 6.
अभवन्दनुपुत्राश्च द्विमूर्द्धा शंकरस्तथा 6.
एकचक्रो महाबाहुस्तारकश्च महाबलः 6.
एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्य्यवान् 6.
उपदानवी हयशिराः प्रख्याता वरकन्यकाः 6.
उभे ते तु महाभागे मारीचेस्तु परिग्रहः 6.
पौलोमाः कालकञ्जाश्च मारीचतनयाः स्मृताः 6.
व्यंशः शल्यश्च बलवान्नभश्चैव महाबलः 6.
अञ्ज (न्त) को नरकश्चैव काल नाभस्तथैव च 6.
षट् सुताश्च महासत्त्वास्ताम्रायाः परिकीर्त्तिताः 6.
शुकी शुकानजनयदुलूकी प्रत्यलूककान् 6.
शुच्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत 6.
विनतायास्तु पुत्रौ द्वौ विख्यातौ गरुडारुणौ 6.
काद्रवेयाश्च फणिनः सहस्त्रममितौजसः 6.
शङ्खः श्वेतो महापद्मः (शंखः) कम्बलाश्वतरौ तथा 6.
गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः 6.
गास्तु वै जनयामास सुरभिर्महिषांस्तथा 6.
खगा च यक्षरक्षांसि मुनिरप्सरसस्तथा 6.
देवा एकोनपञ्चाशन्मरुतो ह्यभवन्निति 6.
एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः 6.
मितश्च समितश्चैव सुमितश्च महाबलः 6.
अतिमित्रोऽप्यमित्रश्च दूरमित्रोऽजितस्तथा 6.
विधारणश्च दुर्मेधा अयमेकगणः स्मृतः 6.
एतेनः प्रसदृक्षश्च सुरतश्च महातपाः 6.
नादिरुग्रो ध्वनिर्भासो विमुक्तो विक्षिपः सहः 6.
उद्वेषणो गणो नाम वायुस्कन्धे तु सप्तमे 6.
सूर्य्यादि परिवारेण मन्वाद्या ईजिरे हरिम् ।। 6.