यत्पद्मरागस्य महागुणस्य मूल्यं भवेन्माषसमुन्मितस्य 72.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे इन्द्रनीलपरीक्षणं नाम द्विसप्ततितमोऽध्यायः
वैदूर्य्यपुष्परागाणां कर्केते भीष्मके वदे 73.
कल्पान्तकालक्षुबिताम्बुराशेर्निर्ह्रादकल्पाद्दितिजस्य नादात् 73.
अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः 73.
तस्य नादसमुत्थत्वादाकरः सुमहागुणः 73.
तस्यैव दानवपतेर्निनदानुरूपाः प्रवृट्पयोदवरदर्शित चारुरूपाः 73.
पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ 73.
तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम् 73.
गुणवान्वैदूर्य्यमणिर्योजयति स्वामिनं परंभा (भो) ग्यैः 73.
गिरिकाचशिशुपालौ काच स्फटिकाश्च धूमनिर्भिन्नाः 73.
लिख्याभावात्काचं लघुभावाच्छैसुपालकं विद्यात् 73.
यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् 73.
जात्यस्य सर्वेऽपि मणेस्तु यादृग्विजातयः सन्ति समानवर्णाः 73.
सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा नरेण 73.
कुशलाकुशलैः प्रपूर्य्यमाणाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः 73.
क्रमशः समतीतवर्त्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात् 73.
आकरान्समतीतानामुदधेस्तीरसन्निधौ 73.
सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः 73.
शाणश्चतुर्माषमानो माषकः पंचकृष्णलः 73.
इत्थं मणिविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥ 73.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्य्यपरीक्षणं नाम त्रिसप्ततितमोऽध्यायः
पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः 74.
आपीतपाण्डुरुचिरः पाषाणः पद्मरागसंज्ञस्तु 74.
आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः 74.
अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात् 74.
मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नसारविदा 74.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुष्परागपरीक्षणं नाम चतुः सप्ततितमोऽध्यायः
वायुर्नखान्दैत्यपतेर्गृहीत्वा चिक्षेप सत्पद्मवनेषु हृष्टः 75.
वर्णेन तद्रुधिरसोममधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति 75.