यथा च पद्मरागाणां जातकत्रितयं भवेत् 72.
परीक्षाप्रत्ययैर्यैश्च पद्मरागः परीक्ष्यते 72.
यावन्तं च क्रमेदग्निं पद्मरागोपयोगतः 72.
तथापि न परीक्षार्थं गुणानामभि (ति) वृद्धये 72.
अग्निमात्रापरिज्ञाने दाहदोषैश्च दूषितः 72.
काचोत्पलकरवीरस्फटिकाद्या इह बुधैः सवैदूर्य्याः 72.
गुरुभावकठिनभावावेतेषां नित्यमेव विज्ञेयौ 72.
इन्द्रनीलो यथा कश्चिद्विभर्त्त्याताम्रवर्णताम् 72.
यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा 72.
यस्य वर्णस्य भूयस्त्वात्क्षीरे शतगुणे स्थितः 72.
यत्पद्मरागस्य महागुणस्य मूल्यं भवेन्माषसमुन्मितस्य 72.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे इन्द्रनीलपरीक्षणं नाम द्विसप्ततितमोऽध्यायः
वैदूर्य्यपुष्परागाणां कर्केते भीष्मके वदे 73.
कल्पान्तकालक्षुबिताम्बुराशेर्निर्ह्रादकल्पाद्दितिजस्य नादात् 73.
अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः 73.
तस्य नादसमुत्थत्वादाकरः सुमहागुणः 73.
तस्यैव दानवपतेर्निनदानुरूपाः प्रवृट्पयोदवरदर्शित चारुरूपाः 73.
पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ 73.
तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम् 73.
गुणवान्वैदूर्य्यमणिर्योजयति स्वामिनं परंभा (भो) ग्यैः 73.
गिरिकाचशिशुपालौ काच स्फटिकाश्च धूमनिर्भिन्नाः 73.
लिख्याभावात्काचं लघुभावाच्छैसुपालकं विद्यात् 73.
यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् 73.
जात्यस्य सर्वेऽपि मणेस्तु यादृग्विजातयः सन्ति समानवर्णाः 73.
सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा नरेण 73.
कुशलाकुशलैः प्रपूर्य्यमाणाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः 73.
क्रमशः समतीतवर्त्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात् 73.
आकरान्समतीतानामुदधेस्तीरसन्निधौ 73.
सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः 73.
शाणश्चतुर्माषमानो माषकः पंचकृष्णलः 73.