स्नेहप्रदिग्धः प्रतिभाति यश्च यो वा प्रघृष्टः प्रजहाति दीप्तिम् 70.
संप्राप्य चोत्क्षिप्य यथानुवृत्तिं विभर्तियः सर्वगुणानतीव प्राप्यापि रत्नाकरजा स्वजातिं लक्षेद्गुरुत्वेन गुणेन विद्वान् ॥ 70.
अप्रणश्यति सन्देहे शाणे तु परिलेखयेत् 70.
वज्रं वा कुरुविन्दं वा विमुच्यानेन केनचित् 70.
जात्यस्य सर्वेऽपि मणेर्न जातु विजातयः सन्ति समानवर्णाः 70.
गुणोपपन्नेन सहावबद्धोमेणिर्न धार्यो विगुणो हि जात्या 70.
चाण्डाल एकोऽपि यथा द्विजातीन्समेत्य भूरीनपि हन्त्ययत्नात् 70.
सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि वर्त्तमानम् 70.
दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति 70.
वज्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुत्पादितगौरवस्य 70.
वर्णदाप्त्यपपन्नं हि मणिरत्नं प्रशस्यते 70.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पद्मरागपरीक्षणं नाम सप्ततितमोऽध्यायः
दानवाधिपतेः पित्तमादाय भुजगाधिपः 71.
स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ 71.
ततः पक्षनिपातेन संहरन्निव रोदसी 71.
सहसैव मुमोच तत्फणीन्द्रः सुरसाभ्यक्ततुरुष्क (रष्क) पादपायाम् 71.
तस्य प्रपातसमनन्तरकालमेव तद्वद्वरालयमतीत्य रमासमीपे 71.
तत्रैव किञ्चित्पततस्तु पित्तादुपेत्य जग्राह ततो गरुत्मान् 71.
तत्राकठोरशुककण्ठशिरीषपुष्पखद्योतपृष्ठचरशाद्वलशैवलानाम् 71.
तद्यत्र भोगीन्द्रभुजाभियुक्तं पपात पित्तं दितिजाधिपस्य 71.
तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते 71.
सर्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् 71.
अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम् 71.
अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च 71.
युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम् 71.
हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः 71.
यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम् 71.
वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम् 71.
वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति 71.
शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम् 71.