एवं हि सिंहले देशे कुर्वन्ति कुशला जनाः 69.
उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले 69.
यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् 69.
तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत्स्मृतम् ॥ 69.
प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मवेधम् 69.
एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् 69.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमोऽध्यायः
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् 70.
जेत्त्रा सुराणां समरेष्वजस्रं वीर्य्यावलेपोद्धतमानसेन 70.
तत्सिंहलीचारुनितम्बबिम्बविक्षो भितागाधमहाह्रदायाम् 70.
ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया 70.
ततः प्रभृत्येव च शर्वरीषु कूलानि रत्नैर्निचितानि तस्याः 70.
तस्यास्तटेपूज्ज्वचारुरागा भवन्ति तोयेषु च पद्मरागाः 70.
बन्धू कगुंजासकलेन्द्रगोपजवासमासृक्समवर्णशोभाः 70.
सिन्दुरपद्मोत्पलकुंकुमानां लाक्षारसस्यापि समानवर्णः 70.
भानोश्च भासामनुवेधयोगामासाद्य रशमि प्रकरेण दूरम् 70.
कुसुम्भनीलव्यतिमिश्ररागप्रत्युग्ररक्ताबुजतुल्यभासः 70.
चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित् 70.
प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भवानाम् 70.
कामं तु रागः कुरुविन्दजेषु स नैव यादृक् स्फटिकोद्भवेषु 70.
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः 70.
वर्णानुयायिनस्तेषा मान्ध्रदेशे तथा परे 70.
तथैव स्फाटिकोत्थानां देशे तुम्बुरुसंज्ञके 70.
वर्णाधिक्यं गुरुत्वं च स्निग्धता समताच्छता 70.
ये कर्करच्छिद्रमलोपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः 70.
दोषोपसृष्टं मणिमप्रबोधाद्विभर्त्ति यः कश्चन कञ्चिदेव 70.
कामं चारुतराः पंच जातीना प्रतिरूपकाः 70.
कलशपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तपाणीयाः 70.
तुषोपसर्गात्कलशाभिधानमाताम्रभावादपि तुम्बुरूत्थम् 70.
श्रीपूर्णकं दीप्तिविनाकृतत्वाद्विजातिलिङ्गाश्रय एव भेदः 70.