अर्द्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम् अध्यर्द्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य ॥ 69.
यदि षोडशभिर्भवेदनूनंधरणं तत्प्रवदन्ति दार्विकाख्यम् 69.
द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः 69.
त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्त्यते 69.
चत्वारिंशद्र भवेत्तस्यास्त्रिंशन्मूल्यं लभेत् सा 69.
षष्टिर्निकरशीर्षं स्यात्तस्या मूल्यं चतुर्दश एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥ 69.
आदाय तत्सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्रम् 69.
मृल्लिप्तमत्स्यपुटमध्यगतं तु कृत्वा पश्चात्पचेत्तनु ततश्च बिडालपुट्या 69.
शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम् 69.
श्वेतकाचसमं तारं हेमांशशतयोजितम् 69.
एवं हि सिंहले देशे कुर्वन्ति कुशला जनाः 69.
उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले 69.
यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् 69.
तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत्स्मृतम् ॥ 69.
प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मवेधम् 69.
एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् 69.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमोऽध्यायः
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् 70.
जेत्त्रा सुराणां समरेष्वजस्रं वीर्य्यावलेपोद्धतमानसेन 70.
तत्सिंहलीचारुनितम्बबिम्बविक्षो भितागाधमहाह्रदायाम् 70.
ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया 70.
ततः प्रभृत्येव च शर्वरीषु कूलानि रत्नैर्निचितानि तस्याः 70.
तस्यास्तटेपूज्ज्वचारुरागा भवन्ति तोयेषु च पद्मरागाः 70.
बन्धू कगुंजासकलेन्द्रगोपजवासमासृक्समवर्णशोभाः 70.
सिन्दुरपद्मोत्पलकुंकुमानां लाक्षारसस्यापि समानवर्णः 70.
भानोश्च भासामनुवेधयोगामासाद्य रशमि प्रकरेण दूरम् 70.
कुसुम्भनीलव्यतिमिश्ररागप्रत्युग्ररक्ताबुजतुल्यभासः 70.
चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित् 70.
प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भवानाम् 70.
कामं तु रागः कुरुविन्दजेषु स नैव यादृक् स्फटिकोद्भवेषु 70.