क्वचित्कथञ्चित्स भुवः प्रदेशे प्रजायते सूकरवद्विशिष्टः 69.
ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्वजन्ये 69.
नितान्तधौतप्रविकल्पमाननिस्त्रिंशधारासमवर्णकान्ति 69.
तेजोऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य 69.
रक्षाविधानं सुमहद्विधाय हर्म्योपरिष्ठं क्रियते यदा तत् 69.
पयोधराक्रान्तिविलम्बिनम्रैर्धनैवैराव्रियतेऽन्तरिक्षम् 69.
हिंसन्ति यस्याहिशिरः समुत्थं मुक्ताफलं तिष्ठति कोशमध्ये 69.
अर्चिः प्रभानावृतदिग्विभागमादित्यवददुः खविभाव्यबिम्बम् 69.
दिवा यथा दीर्प्तिंकरं तथैव तमोऽवगाढास्वपि तन्निशासु 69.
मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य सुवर्णपूर्णा 69.
सापत्न्यहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव 69.
तद्योजनानां परितः सहस्त्रं सर्वाननर्थान्विमुखी करोति 69.
विचित्रवर्णेषु विशुद्धवर्णा पयः सु पत्युः पयसां पपात 69.
तच्छुक्तिमत्सु स्थितिमाप बीजमासन्पुराऽप्यन्यभवानि यानि तस्मिन्पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥ 69.
सैंहलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः 69.
शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः 69.
चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान् 69.
एतस्य शुक्तिप्रभस्य मुक्ताफलस्य चान्येन समुन्मितस्य 69.
यन्माषकार्द्धेन ततो विहीनं तत्पंचभागद्वयहीनमूल्यम् 69.
अर्द्धाधिकौ द्वौ वहतोऽस्य मूल्यं त्रिभिः शतैरप्यधिकं सहस्त्रम् 69.
अर्द्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम् अध्यर्द्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य ॥ 69.
यदि षोडशभिर्भवेदनूनंधरणं तत्प्रवदन्ति दार्विकाख्यम् 69.
द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः 69.
त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्त्यते 69.
चत्वारिंशद्र भवेत्तस्यास्त्रिंशन्मूल्यं लभेत् सा 69.
षष्टिर्निकरशीर्षं स्यात्तस्या मूल्यं चतुर्दश एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥ 69.
आदाय तत्सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्रम् 69.
मृल्लिप्तमत्स्यपुटमध्यगतं तु कृत्वा पश्चात्पचेत्तनु ततश्च बिडालपुट्या 69.
शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम् 69.
श्वेतकाचसमं तारं हेमांशशतयोजितम् 69.