तीक्ष्णाग्रं विमलमपेतसर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् 68.
व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च 68.
यदि वज्रमपेतसर्वदोषं बिभृयात्तण्डुलविंशतिं गुरुत्वे 68.
त्रिभागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः 68.
यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम् 68.
न चापि तण्डुलैरेव वज्राणां धारणक्रमः 68.
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि 68.
अल्पेनापि हि दोषेण लक्ष्यालक्ष्येण द्वषितम् 68.
प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा 68.
स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते 68.
प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम् 68.
नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या 68.
अयसा पुष्परागेण तथा गोमेदकेन च 68.
प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः 68.
क्षारोल्लेखनशाणाभिस्तेषां कार्य्यं परीक्षणम् 68.
सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते 68.
वज्रे तां वैपरीत्येन सूरयः परिचक्षते 68.
वज्रैर्वज्रं विलिखति नान्येन विलिख्यते वज्रम् 68.
न तेषां प्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी तिर्य्यग्विलिख्यमानानां सा (स) पार्श्वेषु विहन्यते ॥ 68.
यद्यपि विशीर्णकोटिः स बिन्दुरेखान्वितो विवर्णो वा 68.
सौदामिनीविस्फुरिताभिरामं राजा यथोक्तं कुलिशं दधानः 68.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाष्टषष्टितमोऽध्यायः
द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि 69.
तत्रैव चैकस्य हि मूलमात्र निविश्यते रत्नपदस्य जातु 69.
त्वक्सारनागेन्द्रतिमिप्रसूतं यच्छङ्खजं यच्च वरा हजातम् 69.
या मौक्तिकानामिह जातयेऽष्टौ प्रकीर्त्तिता रत्नविनिश्चयज्ञैः 69.
स्वयोनिमद्यच्छवितुल्यवर्णं शाङ्खं बृहल्लोलफलप्रमाणम् 69.
ये कम्बवः शांर्गमुखावमर्शपीतस्य शङ्खप्रवरस्य गोत्रे 69.
उत्पद्यते मौक्तिकमेषु वृत्तमापीतवर्णं प्रभया विहीनम् 69.
उत्पद्यते वारिचराननेषु मत्स्याश्चे ते मध्यचराः पयोधेः 69.