विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात्क्षत्त्रियस्य शशबभ्रुविलोचनाभः 68.
द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ 68.
ईशत्वात्सर्ववर्णानां गुणवत्सार्ववर्णिकम् 68.
अधरोत्तरवृत्तया हि यादृक् स्याद्वर्णसङ्करः 68.
न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः 68.
एकमपि यस्य श्रृङ्गं विदलितमवलोक्यते विशीर्णं वा 68.
स्फुटिताग्निविशीर्णश्रृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम् 68.
यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम् 68.
कोट्यः पार्श्वनि धाराश्च षडष्टौ द्वादशेति च 68.
षट्कोटि शुद्वममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेतदोषम् 68.
तीक्ष्णाग्रं विमलमपेतसर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् 68.
व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च 68.
यदि वज्रमपेतसर्वदोषं बिभृयात्तण्डुलविंशतिं गुरुत्वे 68.
त्रिभागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः 68.
यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम् 68.
न चापि तण्डुलैरेव वज्राणां धारणक्रमः 68.
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि 68.
अल्पेनापि हि दोषेण लक्ष्यालक्ष्येण द्वषितम् 68.
प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा 68.
स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते 68.
प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम् 68.
नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या 68.
अयसा पुष्परागेण तथा गोमेदकेन च 68.
प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः 68.
क्षारोल्लेखनशाणाभिस्तेषां कार्य्यं परीक्षणम् 68.
सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते 68.
वज्रे तां वैपरीत्येन सूरयः परिचक्षते 68.
वज्रैर्वज्रं विलिखति नान्येन विलिख्यते वज्रम् 68.
न तेषां प्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी तिर्य्यग्विलिख्यमानानां सा (स) पार्श्वेषु विहन्यते ॥ 68.
यद्यपि विशीर्णकोटिः स बिन्दुरेखान्वितो विवर्णो वा 68.