शान्तिमुक्त्यर्थसिद्ध्यै च इडा योज्या नराधिपैः 67.
विषवत्तं तु जानीयात्संस्मरेत्तु विचक्षणः 67.
गमनागमने चैव वामा सर्वत्र पूजिता 67.
प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि 67.
जीवाजीवाय यत्पृच्छेन्न सिध्यति च मध्यमा 67.
तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः 67.
तत्र भागे स्थितः पृच्छेत्सिद्धिर्भवति निष्फला 67.
घोरे घोराणि कार्य्याणि सौम्ये वै मध्यमानि च 67.
तदा मृत्युं विजानीयाद्योगी योगविशारदः 67.
तत्र तत्र समं दिश्याद्वातस्योदयनं सदा 67.
वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा 67.
जीवो जीवति जीवेन यच्छून्यं तस्त्वरो भवेत् 67.
तत्सर्वं पूर्णनाड्यां तु जायते निर्विकल्पतः 67.
यावत्षष्ठी तु पृच्छायां पूर्णायां प्रथमो जयेत् 67.
वामाचारसमो वायुर्जायते कर्मसिद्धिदः 67.
अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् 67.
दक्षवातप्रवाहे तु यदि नाम समाक्षरम् 67.
पिङ्गलान्तर्गते प्राणे शमनीयाहवं जयेत् 67.
न दातुं जायते सोऽपि नात्र कार्य्या विचारणा 67.
सा दिशा जयमाप्नोति शून्ये भंगं विनिर्दिशेत् 67.
जयं पराजयं चैव यो जानाति स पण्डितः 67.
कृत्वा तत्पदमाप्नोति यात्रा सन्ततशोभना 67.
यस्तु पृच्छति तत्रस्थः स साधुर्जयतिध्रुवम् 67.
जायते नात्र सन्देह हन्द्रो यद्यग्रतः स्थितः 67.
चरेस्थिरे तद्विमार्गे तादृशेतादृशे क्रमात् 67.
पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत् 67.
ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः 67.
ऊर्द्ध्वे मृत्युरधः शान्तिस्तिर्य्यक् चोच्चाटयेत्सुधीः 67.
इति श्रीगारुडेमहापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्वरोदये शुभाशुभनिरूपणं नाम सप्तषष्टितमोऽध्यायः
परीक्षां वच्मि रत्नानां बलो नामासुरोऽभवत् 68.