कलालिङ्गा च या तिष्ठेत्पञ्चमस्तस्य वै मृतिः 66.
नामोदयस्य पूर्वं च तथा भवति नान्यथा 66.
क्षामाद्यङ्गशिवामीक्षा विषग्रहमतिर्हर 66.
मृत्युञ्जयो गणो लक्ष्मी रोचनाद्यैस्तु लेखितः 66.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे शालग्रामषष्ट्यूब्दस्वरोदयानां निरूपणं नाम षट्षष्टितमोऽध्यायः इति
हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ॥ 67.
कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्त्तितः 67.
गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः 67.
यदाचर इलायुक्तस्तदा कर्मसमाचरेत् 67.
अन्यानि शुभकर्माणि कारयेत प्रयत्नतः 67.
इनश्चैव तथाप्येव पापानामुदयो भवेत् 67.
देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तराः 67.
द्विसप्ततिसहस्त्राणि नाभिमध्ये व्यवस्थिते 67.
तासां मध्ये त्रयः श्रेष्ठा वामदक्षिणमध्यमाः 67.
मध्यमा च भवेदग्निः फलंती कालपूरिणी 67.
दक्षिणा रौद्रभागेन जगच्छोषयते सदा 67.
निर्गमे तु भवेद्वामा प्रवेशे दक्षिणा स्मृता 67.
कारयेत्क्रूर कर्माणि प्राणे पिंगलसंस्थिते 67.
भोजने मैथुने युद्धे पिंगला सिद्धिदायिका 67.
मैथुने चैव संग्रामे भोजने सिद्धिदायिका 67.
शान्तिमुक्त्यर्थसिद्ध्यै च इडा योज्या नराधिपैः 67.
विषवत्तं तु जानीयात्संस्मरेत्तु विचक्षणः 67.
गमनागमने चैव वामा सर्वत्र पूजिता 67.
प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि 67.
जीवाजीवाय यत्पृच्छेन्न सिध्यति च मध्यमा 67.
तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः 67.
तत्र भागे स्थितः पृच्छेत्सिद्धिर्भवति निष्फला 67.
घोरे घोराणि कार्य्याणि सौम्ये वै मध्यमानि च 67.
तदा मृत्युं विजानीयाद्योगी योगविशारदः 67.
तत्र तत्र समं दिश्याद्वातस्योदयनं सदा 67.