स्त्रीषु दोषा विरूपासु पत्राकारो गुणास्ततः 65.
निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात् 66.
त्रिचक्रोऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः 66.
पुरुषोत्तमश्चाष्टमः स्यान्नवव्यूहो दशात्मकः 66.
अत ऊर्ध्वमनन्तः स्याच्चक्रे रेखादिकैः क्रमात् 66.
शालग्रामशिला यत्र देवो द्वारवतीभवः 66.
शालग्रामो द्वारका च नैमिषं पुष्करं गया 66.
गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती 66.
सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै 66.
अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च 66.
चित्रभानुः स्वभानुश्च तारणः पार्थिवो व्ययः 66.
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ 66.
शुभकृच्छोभनः क्रोधी विश्वावमुपराभवौ 66.
परिधावी प्रमादी च आनन्दो राक्षसो नलः 66.
दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनोऽक्षयः 66.
कालं वक्ष्यामि संसिद्ध्यै रुद्र पञ्चस्वरोदयात् 66.
आ ई ऊ ऐ औ स्वरांश्च लिखेत्पञ्चाग्निकोष्ठके 66.
तिथी एकाग्निकोष्ठेषु त्रयो राजाथ सा (मा) जयाः 66.
गुरुशुक्रौ च मन्दश्च रविचन्द्रौ यथोदितम् 66.
पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा 66.
कलालिङ्गा च या तिष्ठेत्पञ्चमस्तस्य वै मृतिः 66.
नामोदयस्य पूर्वं च तथा भवति नान्यथा 66.
क्षामाद्यङ्गशिवामीक्षा विषग्रहमतिर्हर 66.
मृत्युञ्जयो गणो लक्ष्मी रोचनाद्यैस्तु लेखितः 66.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे शालग्रामषष्ट्यूब्दस्वरोदयानां निरूपणं नाम षट्षष्टितमोऽध्यायः इति
हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ॥ 67.
कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्त्तितः 67.
गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः 67.
यदाचर इलायुक्तस्तदा कर्मसमाचरेत् 67.
अन्यानि शुभकर्माणि कारयेत प्रयत्नतः 67.